Shopping Cart


Return To Shop
View Cart

विद्यापतिशतकम् (Vidyapatishatkam)

ख्रीष्टाब्दस्य चतुर्दशे शतके मिथिलायां प्रादुर्भूतेन महाकविविद्यापतिना मिथिलाभाषायां प्रणीतानि मक्तिशृङ्गार-वैराग्यसम्मृतानि गीतानि प्राच्यभारतीय जनपदेषु अद्यावधि नितरां समादरास्पदं पदमधिशेरते । मिथिला भाषावबोधविधुराणां संस्कृतज्ञानां महाकविविद्यापतिरचित गीतजात-निहितभाव सम्पत्परिचयार्थं ग्रन्थेऽस्मिन् शत-सङ्ख्यकानां सपरिशिष्टानां तदीयगीतानां संस्कृत भाषामाश्रित्य आर्याजातिनिबद्धो भावानुवादः महाकवेः कवित्व- प्रकर्षस्य कामपि कान्तिं समुन्मीलयितुं प्रयतते । महाकविनामुना संस्कृतभाषामाश्रित्य प्रणीतेषु विविधविष- सावगाहिषु ग्रन्थरत्नेषु सत्स्वपि एतदीयं- मिथिला भाषामयं गतनिव है- रस्य महाकवित्वं पुरातनादेव कालात् परं प्रथिमानमञ्चन्ती अद्यापि भाषाकाव्य विदां सचेतसां गोष्ठीषु सशिरःकम्प श्लाध्यमानं प्रशंसास्पदं पद पधिशेते । मेथिल - कवि - कोकिलः सदुपाध्यायो महाकवि विद्यापतिः स्त्रीष्टाब्दस्य चतुर्दश्याः शताब्द्याश्चतुर्थ-चरणारम्भकाले व्योमबाणा- ग्निविधु सम्मित-वर्षसन्निकर्षे मिथिलायां जन्म-परिग्रहं चकार । असो महाकविः सकल-विद्यास्थानावगाहन-परिपूतेन अप्रतिमेन प्रज्ञावैभवेन, नीति-शास्त्र-प्रयोग-वंशारथेन, स्मात्तंकर्मानुष्ठान- विधान-दाक्ष्पेण, दायभाग-व्यवस्थापन-पाटवेन, स्वकाल-समुद्भूत- पतनोन्नति-बन्धुर-राजतन्त्र-स्थिति-साक्षात्कार - समुदित- कालोचित- व्यवहार - निर्वाह - प्रावण्येन, अमन्दानन्दमय - मिथिलाभाषामय गीत - विरचन - नैपुण्येन च प्राच्यभारतभूभागस्य मध्यकालावधिवत्तिनि पुरावृत्त नितरामसाधारणं महिमातिशयं पुष्णाति ।


( No Reviews )

₹ 200 ₹255

255

No Cancellation
No Returnable
Product Details :
Pages : 153
Made In : India

Related Products



(1203 Reviews )